श्रीरामनाथ-सुप्रभातम् ॥

श्रीरामनाथ-सुप्रभातम् ॥

नमस्ते गिरिजा-कान्त शरणागत-वत्सल ।
उत्तिष्ठ करुणासिन्धो सन्ध्याकालः प्रवर्तते ॥ २॥
उत्तिष्ठोत्तिष्ठ गौरीश उत्तिष्ठ वृषभ-ध्वज ।
उत्तिष्ठ पार्वती-नाथ त्रैलोक्यं मङ्गलं कुरु ॥ ३॥
मातः पुरारि-हृदयाम्बुज-नित्यवासे भक्त्या मुरारि-मुखपूजित-पादयुग्मे ।
श्रीशङ्कराश्रित-जनेषु दयार्द्र-चित्ते श्रीरामनाथ-दयिते तव सुप्रभातम् ॥ ४॥
तव सुप्रभातममरेन्द्र-वन्दिते निज-दीन-भक्त-वरदान-शोभिते ।
हर्-इधातृ-देवरमणीभिरर्चिते ह्यव रामनाथ-दयिते दयायुते ॥ ५॥
रामादि-भक्तनिचयास्त्वदुपासनाय गङ्गादि-पुण्यसरिदाहृत-दिव्यपुष्पैः ।
आगत्य पादयुगलार्चन-जागरूकाः श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ६॥
वीणा-मृदङ्ग-परिमण्डित-नारदाद्यैः सङ्गीयमान-चरितामृत पुण्यदेह ।
चूडामणीकृत-मनोहर-चन्द्रबिम्ब श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ७॥
रामेश्वरेति प्रथिते प्रदेशे रामं पुरस्कृत्य शिवं स्तुवन्ति ।
ऐक्यं प्रदिष्टं शिवरामयोश्च विष्ण्वीशमूर्ते तव सुप्रभातम् ॥ ८॥
ब्रह्मेन्द्र-विष्णु-गुह-वाक्पति-सोमसूर्याः मृत्युञ्जयादि-चरितं बहुधा स्तुवन्ति ।
वाचस्पतिर्वदति वासरशुद्धिमारात् श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ९॥
दुष्पण्यजात-शिशुमारणवारकं च यत्पावकाख्यमतिपावनमग्नितीर्थम् ।
आवाति मन्दमनिलस्सह तस्य तोयैः श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १०॥
श्रीराममन्त्र-जपपावन-चित्तवृत्तिः आपादवक्त्रमनुलेपित-रक्तवर्णः ।
श्रीमारुतिर्जयति मन्दिर-पूर्वभागे श्रीगन्धमादनविभो तव सुप्रभातम् ॥ ११॥
सीतापहर्तृ-दशकण्ठ-विमर्दनाय देवांशभूत-हरियूथ-सहायकेन ।
रामेण बद्ध-वरसेतुतल-प्रसन्न श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १२॥
ब्रह्मघ्न-पाप-परिहारविधौ यतेन रामेण पूजित-पवित्र-पदाब्ज-युग्म ।
भक्तार्ति-भञ्जन निरञ्जन रामनाथ श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १३॥
शैलाधिराज-तनयाञ्चिअत-वामभाग कैलासवास करुणामृत-पूर्ण-नेत्र ।
गङ्गाधर त्रिनयनाङ्कित चन्द्रचूड श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १४॥
नित्याभिषेचन-विधौ तव गाङ्ग-तोयं येन प्रदिष्टमिह रावण-घातकेन ।
तत्कोटि-तीर्थ-महिमावृत-सन्निधान श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १५॥
शेषेण वायुकृत-विक्रम-वाद-युद्धे वातेन भेदितमभूत् किल पर्वताग्रम् ।
तद्गन्धमादन-गिरौ कृत-सन्निधानं श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १६॥
गङ्गानदी-तट-वराल-पुण्यभूमौ ब्रह्मादि-देव-निकरैः स्तुत-विश्वनाथः ।
त्वद्वामभाग-परिकल्पित-मन्दिरस्थः श्रीगन्धमादनविभो तव सुप्रभातम् ॥ १७॥
पूर्णेन्दु-बिम्ब-वदनस्सरसीरुहाक्षः कोदण्ड-मण्डित-करः करुणा-समुद्रः ।
सीतापतिर्जयति सुन्दर ते समक्षं श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ १८॥
नन्दीश्वरेण गजवक्त्र-षडाननाद्यैः देवैरनन्त-वरदैश्च नवग्रहाद्यैः ।
भक्त्या समर्चित-निजाम्बुज-पाद-युग्म श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ १९॥
पद्मालयापति-विधीन्द्र-किरीट-रत्नैः नीराजिताङ्घ्रि-युगला गिरिराज-पुत्री ।
त्वद्दक्षिणालयवरे कृत-सन्निधाना श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २०॥
लक्ष्मीसरः-प्रभृति पाप-हराणि सन्ति तीर्थानि पुण्य-फलदानि तवालयान्ते ।
तत्तीर्थ-दिव्य-महिमावृत-पुण्य-देश श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २१॥
श्रीरामलिङ्ग करुणामृत-पूर्ण-नेत्र श्रीभूमिनाथ-परिसेवित-दिव्यगात्र ।
श्रीपार्वतीश भवताप-विनाश-दक्ष श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २२॥
ज्योतिः-स्वरूप तव दिव्य-पदाम्बुजे मे निर्व्याज-भक्तिमिह देहि कृपाम्बुराशे ।
मां पाहि देव शरणागत-पारिजात श्रीरामनाथ शिव भो तव सुप्रभातम् ॥ २३॥
॥ इति श्रीरामनाथ सुप्रभातम्॥


No comments:

Post a Comment