श्री महालक्ष्मी स्तवकवच पूजा


नारद उवाच ।
आविर्भूय हरिस्तस्मै किं स्तोत्रं कवचं ददौ । महालक्ष्म्याश्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन ॥ १
नारायण उवाच ।पुष्करे च तपस्तप्त्वा विरराम सुरेश्वरः ।आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम् ॥ २॥
तमुवाच हृषीकेशो वरं वृणु यथेप्सितम् ।स च वव्रे वरं लक्ष्मीमीशस्तस्मै ददौ मुदा ॥ ३॥
वरं दत्त्वा हृषीकेशः प्रवक्तुमुपचक्रमे ।हितं सत्यं च सारं च परिणामसुखावहम् ॥ ४॥
मधुसूदन उवाच ।गृहाण कवचं शक्र सर्वदुःखविनाशनम् । परमैश्वर्यजनकं सर्वशत्रुविमर्दनम् ॥ ५॥
ब्रह्मणे च पुरा दत्तं विष्टपे च जलप्लुते ।यद्धृत्वा जगतां श्रेष्ठः सर्वैश्वर्ययुतो विधिः ॥ ६॥
बभूवुर्मनवः सर्वे सर्वैश्वर्ययुता यतः ।सर्वैश्वर्यप्रदस्यास्य कवचस्य ऋषिर्विधिः ॥ ७॥
पङ्क्तिश्छन्दश्च सा देवी स्वयं पद्मालया वरा ।सिद्ध्यैश्वर्यसुखेष्वेव विनियोगः प्रकीर्तितः ॥८॥ 
यद्धृत्वा कवचं लोकः सर्वत्र विजयी भवेत् ।मस्तकं पातु मे पद्मा कण्ठं पातु हरिप् ॥९ ॥
नासिकां पातु मे लक्ष्मीः कमला पातु लोचने । केशान्केशवकान्ता च कपालं कमलालया ॥ १०॥
जगत्प्रसूर्गण्डयुग्मं स्कन्धं सम्पत्प्रदा सदा । ॐ श्रीं कमलवासिन्यै स्वाहा पृष्ठं सदाऽवतु ॥ ११॥
ॐ ह्रीं श्रीं पद्मालयायै स्वाहा वक्षः सदाऽवतु ।पातु श्रीर्मम कङ्कालं बाहुयुग्मं च ते नमः ॥ १२॥
ॐ ह्रीं श्रीं लक्ष्म्यै नमः पादौ पातु मे सन्ततं चिरम् । ॐ ह्रीं श्रीं नमः पद्मायै स्वाहा पातु नितम्बकम् ॥ १३॥
ॐ श्रीं महालक्ष्म्यै स्वाहा सर्वाङ्गं पातु मे सदा । ॐ ह्रीं श्रीं क्लीं महालक्ष्म्यै स्वाहा मां पातु सर्वतः ॥ १४॥
इति ते कथितं वत्स सर्वसम्पत्करं परम् । सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ १५॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः । कण्ठे वा दक्षिणे बाहौ स सर्वविजयी भवेत् ॥ १६॥
महालक्ष्मीर्गृहं तस्य न जहाति कदाचन । तस्यच्छायेव सततं सा च जन्मनि जन्मनि ॥ १७॥
इदं कवचमज्ञात्वा भजेल्लक्ष्मीं स मन्दधीः । शतलक्षप्रजापेऽपि न मन्त्रः सिद्धिदायकः ॥ १८॥

नारायण उवाच ।
दत्त्वा तस्मै च कवचं मन्त्रं वै षोडशाक्षरम् ।सन्तुष्टश्च जगन्नाथो जगतां हितकारणम् ॥ १९॥
ॐ ह्रीं श्रीं क्लीं नमो महालक्ष्म्यै स्वाहा ।ददौ तस्मै च कृपया चेन्द्राय च महामुने ॥ २०॥
ध्यानं च सामवेदोक्तं गोपनीयं सुदुर्लभम् ।सिद्धैर्मुनीन्द्रैर्दुष्प्राप्यं ध्रुवं सिद्धिप्रदं शुभम् ॥ २१॥
श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् ।वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ २२॥
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ।कस्तूरीबिन्दुमध्यस्थं सिन्दूरं भूषणं तथा ॥ २३॥
अमूल्यरत्नरचितकुण्डलोज्ज्वलभूषणम् ।बिम्रती कबरीभारं मालतीमाल्यशोभितम् ॥ २४॥
सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम् ।शान्तां च श्रीहरेः कान्तां तां भजेज्जगतां प्रसूम् ॥ २५॥
ध्यानेनानेन देवेन्द्रो ध्यात्वा लक्ष्मीं मनोहराम् ।भक्त्या सम्पूज्य तस्यै च चोपचारांस्तु षोडश ॥ २६॥
स्तुत्वाऽनेन स्तवेनैव वक्ष्यमाणेन वासव ।नत्वा वरं गृहीत्वा च लभिष्यसि च निर्वृतिम् ॥ २७॥
स्तवनं शृणु देवेन्द्र महालक्ष्म्याः सुखप्रदम् ।कथयामि सुगोप्यं च त्रिषु लोकेषु दुर्लभम् ॥ २८॥

नारायण उवाच ।
देवि त्वां स्तोतुमिच्छामि न क्षमाः स्तोतुमीश्वराः ।बुद्धेरगोचरां सूक्ष्मां तेजोरूपां सनातनीम् ।
अत्यनिर्वचनीयां च को वा निर्वक्तुमीश्वरः ॥ २९॥
स्वेच्छामयीं निराकारां भक्तानुग्रहविग्रहाम् ।स्तौमि वाङ्मनसोः पारां किंवाऽहं जगदम्बिके ॥ ३०॥
परां चतुर्णां वेदानां पारबीजं भवार्णवे ।सर्वसस्याधिदेवीं च सर्वासामपि सम्पदाम् ॥ ३१॥
योगिनां चैव योगानां ज्ञानानां ज्ञानिनां तथा ।वेदानां वै वेदविदां जननीं वर्णयामि किम् ॥ ३२॥
यया विना जगत्सर्वमबीजं निष्फलं ध्रुवम् ।यथा स्तनन्धयानां च विना मात्रा सुखं भवेत् ॥ ३३॥
प्रसीद जगतां माता रक्षास्मानतिकातरान् ।वयं त्वच्चरणाम्भोजे प्रपन्नाः शरणं गताः ॥ ३४॥
नमः शक्तिस्वरूपायै जगन्मात्रे नमो नमः ।ज्ञानदायै बुद्धिदायै सर्वदायै नमो नमः ॥ ३५
हरिभक्तिप्रदायिन्यै मुक्तिदायै नमो नमः ।सर्वज्ञायै सर्वदायै महालक्ष्म्यै नमो नमः ॥ ३६॥
कुपुत्राः कुत्रचित्सन्ति न कुत्रापि कुमातरः ।कुत्र माता पुत्रदोषं तं विहाय च गच्छति ॥ ३७॥
स्तनन्धयेभ्य इव मे हे मातर्देहि दर्शनम् ।कृपां कुरु कृपासिन्धो त्वमस्मान्भक्तवत्सले ॥ ३८॥
इत्येवं कथितं वत्स पद्मायाश्च शुभावहम् ।सुखदं मोक्षदं सारं शुभदं सम्पदः प्रदम् ॥ ३९॥
इदं स्तोत्रं महापुण्यं पूजाकाले च यः पठेत् ।महालक्ष्मीर्गृहं तस्य न जहाति कदाचन ॥ ४०॥
इत्युक्त्वा श्रीहरिस्तं च तत्रैवान्तरधीयत ।देवो जगाम क्षीरोदं सुरैः सार्धं तदाज्ञया ॥ ४१॥

॥ इति श्रीब्रह्मवैवर्तमहापुराणे गणपतिखण्डे नारदनारायणसंवादे लक्ष्मीस्तवकवचपूजाकथनं नाम द्वाविंशोऽध्यायः ॥ 4२॥

No comments:

Post a Comment